Rama decides to leave for forest
Valmiki Ramayana – Kanda 2 – Sarga 19
तत् अप्रियम् अमित्रघ्नः वचनम् मरण उपमम् |
श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत् || २-१९-१
एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु अतः |
जटा चीर धरः राज्ञः प्रतिज्ञाम् अनुपालयन् || २-१९-२
इदम् तु ज्ञातुम् इच्चामि किम् अर्थम् माम् मही पतिः |
न अभिनन्दति दुर्धर्षो यथा पुरम् अरिम् दमः || २-१९-३
मन्युर् न च त्वया कार्यो देवि ब्रूहि तव अग्रतः |
यास्यामि भव सुप्रीता वनम् चीर जटा धरः || २-१९-४
हितेन गुरुणा पित्रा क्ऱ्तज्ञेन न्ऱ्पेण च |
नियुज्यमानो विश्रब्धम् किम् न कुर्यात् अहम् प्रियम् || २-१९-५
अलीकम् मानसम् तु एकम् ह्ऱ्दयम् दहति इव मे |
स्वयम् यन् न आह माम् राजा भरतस्य अभिषेचनम् || २-१९-६
अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च |
ह्ऱ्ष्टः भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः || २-१९-७
किम् पुनर् मनुज इन्द्रेण स्वयम् पित्रा प्रचोदितः |
तव च प्रिय काम अर्थम् प्रतिज्ञाम् अनुपालयन् || २-१९-८
तत् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् मही पतिः |
वसुधा आसक्त नयनो मन्दम् अश्रूणि मुन्चति || २-१९-९
गच्चन्तु च एव आनयितुम् दूताः शीघ्र जवैः हयैः |
भरतम् मातुल कुलात् अद्य एव न्ऱ्प शासनात् || २-१९-१०
दण्डक अरण्यम् एषो अहम् इतः गच्चामि सत्वरः |
अविचार्य पितुर् वाक्यम् समावस्तुम् चतुर् दश || २-१९-११
सा ह्ऱ्ष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी |
प्रस्थानम् श्रद्दधाना हि त्वरयाम् आस राघवम् || २-१९-१२
एवम् भवतु यास्यन्ति दूताः शीघ्र जवैः हयैः |
भरतम् मातुल कुलात् उपावर्तयितुम् नराः || २-१९-१३
तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् |
राम तस्मात् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि || २-१९-१४
व्रीडा अन्वितः स्वयम् यच् च न्ऱ्पः त्वाम् न अभिभाषते |
न एतत् किंचिन् नर श्रेष्ठ मन्युर् एषो अपनीयताम् || २-१९-१५
यावत् त्वम् न वनम् यातः पुरात् अस्मात् अभित्वरन् |
पिता तावन् न ते राम स्नास्यते भोक्ष्यते अपि वा || २-१९-१६
धिक् कष्टम् इति निह्श्वस्य राजा शोक परिप्लुतः |
मूर्चितः न्यपतत् तस्मिन् पर्यन्के हेम भूषिते || २-१९-१७
रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः |
कशया इव आहतः वाजी वनम् गन्तुम् क्ऱ्त त्वरः || २-१९-१८
तत् अप्रियम् अनार्याया वचनम् दारुण उदरम् |
श्रुत्वा गत व्यथो रामः कैकेयीम् वाक्यम् अब्रवीत् || २-१९-१९
न अहम् अर्थ परः देवि लोकम् आवस्तुम् उत्सहे |
विद्धि माम् ऱ्षिभिस् तुल्यम् केवलम् धर्मम् आस्थितम् || २-१९-२०
यद् अत्रभवतः किंचित् शक्यम् कर्तुम् प्रियम् मया |
प्राणान् अपि परित्यज्य सर्वथा क्ऱ्तम् एव तत् || २-१९-२१
न हि अतः धर्म चरणम् किंचित् अस्ति महत्तरम् |
यथा पितरि शुश्रूषा तस्य वा वचन क्रिया || २-१९-२२
अनुक्तः अपि अत्रभवता भवत्या वचनात् अहम् |
वने वत्स्यामि विजने वर्षाणि इह चतुर् दश || २-१९-२३
न नूनम् मयि कैकेयि किंचित् आशंससे गुणम् |
यद् राजानम् अवोचः त्वम् मम ईश्वरतरा सती || २-१९-२४
यावन् मातरम् आप्ऱ्च्चे सीताम् च अनुनयाम्य् अहम् |
ततः अद्य एव गमिष्यामि दण्डकानाम् महद् वनम् || २-१९-२५
भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुर् यथा |
तहा भवत्या कर्तव्यम् स हि धर्मः सनातनः || २-१९-२६
स रामस्य वचः श्रुत्वा भ्ऱ्शम् दुह्ख हतः पिता |
शोकात् अशक्नुवन् बाष्पम् प्ररुरोद महा स्वनम् || २-१९-२७
वन्दित्वा चरणौ रामः विसम्ज्ञस्य पितुस् तदा |
कैकेय्याः च अपि अनार्याया निष्पपात महा द्युतिः || २-१९-२८
स रामः पितरम् क्ऱ्त्वा कैकेयीम् च प्रदक्षिणम् |
निष्क्रम्य अन्तः पुरात् तस्मात् स्वम् ददर्श सुह्ऱ्ज् जनम् || २-१९-२९
तम् बाष्प परिपूर्ण अक्षः प्ऱ्ष्ठतः अनुजगाम ह |
लक्ष्मणः परम क्रुद्धः सुमित्र आनन्द वर्धनः || २-१९-३०
आभिषेचनिकम् भाण्डम् क्ऱ्त्वा रामः प्रदक्षिणम् |
शनैः जगाम सापेक्षो द्ऱ्ष्टिम् तत्र अविचालयन् || २-१९-३१
न च अस्य महतीम् लक्ष्मीम् राज्य नाशो अपकर्षति |
लोक कान्तस्य कान्तत्वम् शीत रश्मेर् इव क्षपा || २-१९-३२
न वनम् गन्तु कामस्य त्यजतः च वसुंधराम् |
सर्व लोक अतिगस्य इव लक्ष्यते चित्त विक्रिया || २-१९-३३
प्रतिषिद्ध्य शुभम् छत्रं व्यजने च स्वलंकृते |
विसर्जयित्वा स्वजनं रथम् पौरास्तथा जन्नान् || २-१९-३४
धारयन् मनसा दुह्खम् इन्द्रियाणि निग्ऱ्ह्य च |
प्रविवेश आत्मवान् वेश्म मातुर प्रिय शंसिवान् || २-१९-३५
सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः |
नालक्षयत् रामस्य किंचिदाकारमानने || २-१९-३६
उचितम् च महाबाहुर्न जहौ हर्षमात्मनः |
शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् || २-१९-३७
वाचा मधुरया रामः स्र्वं सम्मानयन् जनम् |
मातुस्समीपं धीरात्मा प्रविवेश महायशाः || २-१७-३८
तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः |
सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् || २-१९-३९
प्रविश्य वेश्म अतिभ्ऱ्शम् मुदा अन्वितम् |
समीक्ष्य ताम् च अर्थ विपत्तिम् आगताम् |
न चैव रामः अत्र जगाम विक्रियाम् |
सुह्ऱ्ज् जनस्य आत्म विपत्ति शन्कया || २-१९-४०
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनविंशः सर्गः ||