Ayodhya Kanda – Sarga 17 (Valmiki Ramayana)

Rama’s arrival at royal court

Valmiki Ramayana – Kanda 2 – Sarga 17

स रमो रथमास्थाय सम्प्रहृष्टसुहृञनः |
पताकाध्वजसंपन्नं महार्हगुरुधूपितम् || २-१७-१
अपश्यन्नगरं श्रीमान् नानाजनसमाकुलम् |

स गृहैरभ्रसंकाशैः पांडुरैरुपशोभितम् || २-१७-२
राजमार्गं ययौ रामो मध्येनगरुधूपितम् |

चन्दनानाम् च मुख्यानामगुरूणाम् च संचयैः || २-१७-३
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च |
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि || २-१७-४
शोभमानसम्बाधं तं राजपथमुत्तमम् |
संवृतं विविधैः पुष्पैभ्रुक्ष्यैरुच्चावचैरपि || २-१७-५

ददर्श तं राजपथं दिवि देवपतिर्यथा |
दध्यक्षतहविर्लाजैर्धूपैरगुरुचंदनैः || २-१७-६
नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् |

आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् || २-१७-७
यथार्हं चापि सम्पूज्य सर्वानेव नारान् ययौं |

पितामहैराचरितं तथैव प्रपितामहैः || २-१७-८
अध्योपादाय तं मार्गमभिषित्तोऽनुपालय |

यथा स्म पोषिताः पित्रा यथा पूर्वैः पितामहैः ||२-१७-९
ततः सुखतरं सर्वे रामे वत्स्याम राजनि |

अलमद्य हि भुक्तेन परमार्थैरलं च नः || २-१७-१०
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् |

ततो हि न प्रियतरं नान्यत्किंचिद्भविश्यति || २-१७-११
यथाभिषेको रामस्य राज्येनामिततेजसः |

एताश्चान्याश्च शुहृदामुदासीनः सुभाः कथाः || २-१७-१२
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् |

नहि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् || २-१७-१३
नरः रोशवनोत्यपाक्रष्टुमातिक्रान्तोऽपि राघवे |

यश्च रामं न पश्येत्तु यं च रामो न पश्यति || २-१७-१४
निन्दतः सर्वलोकेषु स्वात्माप्येनं विगर्हते |

सर्वेषाम् स हि धर्मात्मा वर्णानां कुरुते दयाम् || २-१७-१५
चतुर्णां हि वयह्स्थानाम् तेन ते तमनुव्रता |

चत्पुष्पथान् देवपथांश्चैत्यांश्चायतनानि च || २-१७-१६
प्रदक्षिणं परिहरन् जगाम नृपतेस्सुतः |

स राजकुलमासाद्य मेघसंघोपमैः शुभैः || २-१७-१७
प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः |
आवारयद्भिर्गनं विमानैरिव पाण्डुरैः || २-१७-१८
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः |
तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् || २-१७-१९
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् |

स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः || २-१७-२०
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः |

स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः || २-१७-२१
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरुमत्यगात् |

तस्मिन् प्रविष्टे पितुर्न्तिकं तदा |
जनः स सर्वो मुदितो नृपात्मजे |
प्रतीक्षते तस्य पुनः स्म निर्गमम् |
यथोदयं चन्द्रमसः सरित्पतिः || २-१७-२२

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।