Ayodhya Kanda – Sarga 15 (Valmiki Ramayana)

Sumantra arrives at Sri Rama’s chambers

Valmiki Ramayana – Kanda 2 – Sarga 15

ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः |
उपतस्थुर् उपस्थानम् सह राज पुरोहिताः || २-१५-१

अमात्या बल मुख्याः च मुख्या ये निगमस्य च |
राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः || २-१५-२

उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि |
अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् || २-१५-३
कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्ऱ्तम् |

काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् || २-१५-४
रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा |

गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् || २-१५-५
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च |
प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः || २-१५-६
ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः |

सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः || २-१५-७
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा |

क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः || २-१५-८
वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः |

चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ||२-१५-९
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् |

चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् || २-१५-१०
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् |

पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः || २-१५-११
प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते |

अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः || २-१५-१२
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे |

इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् || २-१५-१३
तथाजातीयमादाय राजपुत्राभिषेचन्म् |
ते राजवचनात्तत्र समवेता महीपतिम् || २-१५-१४
अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् |

न पश्यामश्च राजानमुदितश्च दिवाकरः || २-१५-१५
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः |

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् || २-१५-१६
अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः |

रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् || २-१५-१७
पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः |

अयं पृच्छामि वचनात् सुखमायुष्मतामहम् || २-१५-१८
राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् |

इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् || २-१५-१९
सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह |

तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः || २-१५-२०
शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत |

सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा || २-१५-२१
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् |

सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि || २-१५-२२
वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते |

गता भगवती रात्रिरः शिवमुपस्थितम् || २-१५-२३
बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् |

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप || २-१५-२४
दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव |

स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् || २-१५-२५
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् |

राममानय सूतेति यदस्यभिहितो/अनया || २-१५-२६
किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते |

न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् || २-१५-२७
इति राजा दशरथः सूतं तत्रान्वशात्पुनः |

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् || २-१५-२८
निर्जगम नृपावासान्मन्यमानः प्रियं महत् |

प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् || २-१५-२९
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् |

स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः || २-१५-३०
अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् |

ततो ददर्श रुचिरं कैलासशिखरप्रभम् || २-१५-३१
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् |

महाकवाटपिहितं वितर्दिशतशोभितम् || २-१५-३२
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् |
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् || २-१५-३३
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् |
मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् || २-१५-३४
गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा |
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् || २-१५-३५
सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा |
मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा || २-१५-३६
चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् |
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् || २-१५-३७
मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह |
उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः || २-१५-३८
उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः |
रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् || २-१५-३९
महामेघसमप्रख्यमुदग्रं सुविभूषितम् |
नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् || २-१५-४०

स वाजियुक्तेन रथेन सारथि |
र्नराकुलं राजकुलम् विराजयन् |
वरूथिना रामगृहाभिपातिना |
पुरस्य सर्वस्य मनांसि हर्शयन् || २-१५-४१

ततस्समासाद्य महाधनं महत् |
प्रहृष्टरोमा स बभूव सारथिः |
मृगैर्मयूरैश्च समाकुलोल्बणं |
गृहं वरार्हस्य शचीपतेरिव || २-१५-४२

स तत्र कैलासनिभाः स्वलंकृताः |
प्रविश्य कक्ष्यास्त्रिदशालयोपमाः |
प्रियान् वरान् राममते स्थितान् बहून् |
व्यपोह्य शुद्धांतमुपस्थितो रथी || २-१५-४३

स तत्र शुश्राव च हर्षयुक्ता |
रामाभिषेकार्थकृता जनानां |
नरेंद्रसूनोरभिमंगळार्थाः |
सर्वस्य लोकस्य गिरः प्रहृष्टः || २-१५-४४

महेंद्रसद्मप्रतिमं तु वेश्म |
रामस्य रम्यं मृगपक्षिजुष्टं |
ददर्श मेरोरिव शृंगमुच्चं |
विभ्राजमानं प्रभया सुमम्त्रः || २-१५-४५

उपस्थितै रञ्जलिकारिभिश्च |
सोपायनैर्जानपदैर्जनैश्च |
कोट्या परार्धैश्च विमुक्तयानैः |
समाकुलं द्वारपदम् ददर्श || २-१५-४६

ततो महामेघमहीधराभं |
प्रभिन्नमत्यङ्कुशमत्यसह्यम् |
रामोपवाह्याम् रुचिरम् ददर्श |
शत्रुम्जयं नागमुदग्रकायम् || २-१५-४७

स्वलंकृतान् सास्वरथान् सकुम्जरा |
नमात्यमुखयांश्च ददर्श वल्लभान् |
व्यपोह्य सूतः सहितान्समंततः |
समृद्धमंतःपुर माविवेश ह || २-१५-४८

ततोऽद्रिकूटाचलमेघसन्नि भं |
महाविमानोपमवेश्मसंयुतम् |
अवार्यमाणः प्रविवेश सारथिः |
प्रभूतरत्नं मकरो यथार्णवम् || २-१५-४९

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।