Kaikeyi’s evil boons
Valmiki Ramayana – Kanda 2 – Sarga 11
तं मन्मथशरैर्विद्धं कामवेगवशानुगम् |
उवाच पृथिवीपालं कैकेयी दारुणं वचः || २-११-१
नास्मि विप्रकृता देव केन चिन्नावमानिता |
अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् || २-११-२
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि |
अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया || २-११-३
तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः |
कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् || २-११-४
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम |
मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते || २-११-५
तेनाजय्येन मुख्येन राघवेण महात्मना |
शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि || २-११-६
यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् |
तेन रामेण कैकेयि शपे ते वचनक्रियाम् || २-११-७
आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् |
तेन रामेण कैकेयि शपे ते वचनक्रियाम् || २-११-८
भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे |
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे || २-११-९
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि |
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे || २-११-१०
सा तदर्थमना देवी तमभिप्रायमागतम् |
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः || २-११-११
तेन वाक्येन संहृष्टा तमभिप्रायमागतम् |
व्याजहार महाघोरमभ्यागतमिवान्तकम् || २-११-१२
यथा क्रमेण शपसि वरं मम ददासि च |
तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः || २-११-१३
चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः |
जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा || २-११-१४
निशाचराणि भूतानि गृहेषु गृहदेवताः |
यानि चान्यानि भूतानि जानीयुर्भाषितं तव || २-११-१५
सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः |
वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः || २-११-१६
इति देवी महेष्वासं परिगृह्यभिशस्य च |
ततः परमुवाचेदं वरदं काममोहितम् || २-११-१७
स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे |
तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा || २-११-१८
तत्र चापि मया देव यत्त्वं समभिरक्षितः |
जाग्रत्या यतमानायास्ततो मे प्राददा वरौ || २-११-१९
तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् |
तथैव पृथिवीपाल सकाशे सत्यसंगर || २-११-२०
तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् |
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता || २-११-२१
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः |
प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः || २-११-२२
ततः परमुवाचेदं वरदं काममोहितम् |
वरौ यौ मे त्वया देव तदा दत्तौ महीपते || २-११-२३
तौ तावदहंद्यैव वक्ष्यामि शृणु मे वचः |
अभिषेकसमारम्भओ राघवस्योपकल्पितः || २-११-२४
अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् |
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया || २-११-२५
तदा दैवासुरे युद्धे तस्य कालोऽय मागतः |
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः || २-११-२६
चीराजिनजटाधारी रामो भवतु तापसः |
भरतो भजतामद्य यौवराज्यमकण्टकम् || २-११-२७
एष मे परमः कामो दत्तमेव वरं वृणे |
अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् || २-११-२८
स राजराजो भव स्त्यसंगरः |
कुलं च शीलं च हि रक्ष जन्म च |
परत्र वासे हि वद्न्त्यनुत्तमं |
तपोधनाः सत्यवचो हितं नृणाम् || २-११-२९
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ११थ् सर्गः ||