Kaikeyi enters the house of wrath
Valmiki Ramayana – Kanda 2 – Sarga 10
विदर्शिता यदा देवी कुब्जया पापया भृशम् |
तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी || २-१०-१
निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी |
मन्थरायै श्नः सर्वमाच्चक्षे विचक्षणा || २-१०-२
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता |
नागकन्येव निःस्वस्य दीर्घमुष्णं च भामिनी || २-१०-३
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् |
सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् || २-१०-४
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा |
अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् || २-१०-५
संविवेशाबला भूमौ निवेश्य भृकुटिं मुखे |
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च || २-१०-६
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे |
तया तान्यपविद्धानि माल्यान्याभरणानि च || २-१०-७
अशोभयन्त वसुधां नक्षत्राणि यथा नभः |
क्रोधागारे निपतिता सा बभौ मलिनाम्बरा || २-१०-८
एकवेणीं दृढं बद्ध्वा गतसत्त्वेव किन्नरी |
आज्ञाप्य तु महाराजो राघवस्याभिषेचन्म् || २-१०-९
उपस्थासमनुज्ञाप्य प्रविवेश निवेशन्म् |
अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् || २-१०-१०
प्रियार्हं प्रियमाख्यातुं विवेशान्तःपुरं वशी |
स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः || २-१०-११
पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः |
शुकबर्हिणसंयुक्तं क्रौञ्चहंसरुतायुतम् || २-१०-१२
वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् |
लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः || २-१०-१३
दान्तराजत सौवर्णवेदिकाभिस्समायुतम् |
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् || २-१०-१४
दान्तराजतसौवर्णैः संवृतं परमासनैः |
विविध्यैरन्नपानैश्छ भक्ष्यैश्चवि विधैरपि || २-१०-१५
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् |
तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् || २-१०-१६
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे |
स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः || २-१०-१७
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च |
न ही तस्य पुरा देवी तां वेळामत्यवर्तत || २-१०-१८
न च राजा गृहं शून्यं प्रविवेश कदाचन |
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत || २-१०-१९
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् |
प्रतीहारी त्वथोवाच संत्रस्ता तु क्ऱ्^ताञ्जलिः || २-१०-२०
देव देवी भृशं कृद्धा क्रोधागारमभिद्रुता |
प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः || २-१०-२१
विषसाद पुनर्भुयो लुलितव्याकुलेन्ध्रियः |
तत्रतां पतितां भूमौ शयानामतथोचिताम् || २-१०-२२
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः |
स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् || २-१०-२३
अपापः पापसङ्कल्पां ददर्श धरणीतले |
लतामिव विनिष्कृत्तां पतितां देव तामिव || २-१०-२४
किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा |
मायामिव परिभ्रष्टां हरिणीमिव संयताम् || २-१०-२५
क्रेणुमिव दिग्धेन विद्धां मृगयुना वने |
महागज इन्वारण्ये स्नेहात्परिममर्श ताम् || २-१०-२६
परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः |
कामी कमलपत्राक्षीमुवाच वनितामिदम् || २-१०-२७
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् |
देवि केनाभिशप्तासि केन वासि विमानिता || २-१०-२८
यदिदं ममम् दुःखाय शेशे क्ल्याणि पांसुषु |
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि |
भूतोपहतचित्तेव मम चित्तप्रमाथिनी || २-१०-२९
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः |
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि || २-१०-३०
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् |
कः प्रियं लभतामद्य को वा सुमहदप्रियम् || २-१०-३१
मा रोदीर्मा च कार्षिस्त्वं देवि संपरिशोषणम् || २-१०-३२
अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् |
दरिद्रः को भवेदाढ्यो द्रव्यवान्वाप्यकिञ्चनः || २-१०-३३
अहं चैव मदीयाश्च सर्वे तव वशानुगाः |
न ते किंचिदभिप्रायं व्याहन्तुमहमुत्सहे || २-१०-३४
आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि |
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि || २-१०-३५
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे |
यावदावर्त ते चक्रं तावती मे वसुन्धरा || २-१०-३६
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः |
वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः || २-१०-३७
तत्र जातं बहुद्रव्यं धनधान्य मजाविकम् |
ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि || २-१०-३८
किमायासेन ते भीरु उत्तिष्टोत्तिष्ट शोभने |
तत्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् || २-१०-३९
तत्ते व्यपनयिष्यामि नीहरमिव र्श्मिवान् |
तथोक्ता सा समास्वस्ता वक्तुकामा तदप्रियम् || २-१०-४०
परिपीडयितुं भूयो भर्तारमुपचक्रमे |
|| इत्यार्षे स्रिमद्रामायणे अद्दिकाव्ये अयोध्य काण्दे दशम सर्गः ||