Ayodhya Kanda – Sarga 37 (Valmiki Ramayana)

Kaikeyi offers tree bark to Seetha to wear

Valmiki Ramayana – Kanda 2 – Sarga 37

महा मात्र वचः श्रुत्वा रामः दशरथम् तदा |
अन्वभाषत वाक्यम् तु विनयज्ञो विनीतवत् || २-३७-१

त्यक्त भोगस्य मे राजन् वने वन्येन जीवतः |
किम् कार्यम् अनुयात्रेण त्यक्त सन्गस्य सर्वतः || २-३७-२

यो हि दत्त्वा द्विप श्रेष्ठम् कक्ष्यायाम् कुरुते मनः |
रज्जु स्नेहेन किम् तस्य त्यजतः कुन्जर उत्तमम् || २-३७-३

तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत् पते |
सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे || २-३७-४

खनित्र पिटके च उभे मम आनयत गच्चतः |
चतुर् दश वने वासम् वर्षाणि वसतः मम || २-३७-५

अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् |
उवाच परिधत्स्व इति जन ओघे निरपत्रपा || २-३७-६

स चीरे पुरुष व्याघ्रः कैकेय्याः प्रतिगृह्य ते |
सूक्ष्म वस्त्रम् अवक्षिप्य मुनि वस्त्राणि अवस्त ह || २-३७-७

लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे |
तापसाच् चादने चैव जग्राह पितुर् अग्रतः || २-३७-८

अथ आत्म परिधान अर्थम् सीता कौशेय वासिनी |
समीक्ष्य चीरम् सम्त्रस्ता पृषती वागुराम् इव || २-३७-९

सा व्यपत्रपमाणा इव प्रतिगृह्य च दुर्मनाः |
गन्धर्व राज प्रतिमम् भर्तारम् इदम् अब्रवीत् || २-३७-१०
अश्रुसंपूर्ण्नेत्रा च धर्मज्ञा धर्मदर्शिनी |
गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् || २-३७-११

कथम् नु चीरम् बध्नन्ति मुनयो वन वासिनः |
इति ह्यकुशला सीता सामुमोह मुहुर्मुहुः || २-३७-१२

कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना |
तस्थौ हि अकुषला तत्र व्रीडिता जनक आत्मज || २-३७-१३

तस्याः तत् क्षिप्रम् आगम्य रामः धर्मभृताम् वरः |
चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम् || २-३७-१४

रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरमुत्तमम् |
अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् || २-३७-१५

उचुश्च परमायस्ता रामम् ज्वलिततेजसम् |
वत्स नैवम् नियुक्तेयम् वनवासे मनस्विनी || २-३७-१६

पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् |
तावद्दर्शनमस्या नः सफलम् भवतु प्रभो || २-३७-१७

लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक |
नेयमर्हति कल्याणी वस्तुम् तापसवद्वने || २-३७-१८

कुरु नो याचनाम् पुत्र! सीता तिष्ठतु भामिनी |
धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि || २-३७-१९

तासामेवम्विधा वाचः शृण्वन् दशरथात्मजः |
बबन्धैव तदा चीरम् सीतया तुल्यशीलया || २-३७-२०

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः |
निवार्य सीताम् कैकेयीम् वसिष्ठो वाक्यमब्रवीत् || २-३७-२१

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि |
वञ्यित्वा च राजानम् न प्रमाणेऽवतिष्ठसे || २-३७-२२

न गन्तव्यम् वनम् देव्या सीतया शीलवर्जिते |
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् || २-३७-२३

आत्मा हि दाराः सर्वेषाम् दारसम्ग्रहवर्तिनाम् |
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् || २-३७-२४

अथ यास्यति वैदेही वनम् रामेण सम्गता |
वयमप्यनुयास्यामः पुरम् चेदम् गमिष्यति || २-३७-२५

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः |
सहोपजीव्यम् राष्ट्रम् च पुरम् च सपरिच्छदम् || २-३७-२६

भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः |
वने वसन्तम् काकुत्थ्समनुवत्स्यति पूर्वजम् || २-३७-२७

ततह् शून्याम् गतजनाम् वसुधाम् पादपैः सह |
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता || २-३७-२८

न हि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः |
तद्वनम् भविता राष्ट्रम् यत्र रामो निवत्स्यति || २-३७-२९

न ह्यदत्ताम् महीम् पित्रा भरतः शास्तुमर्हति |
त्वयि वा पुत्रवद्वस्तुम् यदि जातो महीपतेः || २-३७-३०

यद्यपि त्वम् क्षितितलाद्गगनम् चोत्पतिष्यसि |
पितुर्व्ंशचरित्रज्ञः सोऽन्यथा न करिष्यति ||२-३७-३१

तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् |
लोके हि स न विद्येत यो न राममनुव्रतः || २-३७-३२

द्रक्ष्यस्यद्यैव कैकेयि पशुव्याळमृगद्विजान् |
गच्छतः सह रामेण पादपांश्च तदुन्मुखान् || २-३७-३३

अथोत्तमान्याभरणानि देवि |
देहि स्नुषायै व्यपनीय चीरम् |
न चीरमस्याः प्रविधीयतेति |
न्यवारयत् तद्वसनम् वसिष्ठः || २-३७-३४

एकस्य रामस्य वने निवास |
स्त्वया वृतह् केकयराजपुत्रि |
विभूषितेयम् प्रतिकर्मनित्या |
वसत्वरण्ये सह राघवेण || २-३७-३५

यानैश्च मुख्यैः परिचारकैश्च |
सुसम्वृता गच्छतु राजपुत्री |
वस्रैश्च सर्वैः सहितैर्विधानै |
र्नेयम् वृता ते वरसम्प्रदाने || २-३७-३६

तस्मिंस्तथा जल्पति विप्रमुख्ये |
गुरौ नृपस्याप्रतिमप्रभावे |
नैव स्म सीता विनिवृत्तभावा |
प्रियस्य भर्तुः प्रतिकारकामा || २-३७-३७

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे सप्त त्रिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।