Rama breaks shiva’s bow
Valmiki Ramayana – Kanda 1 – Sarga 67
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः |
धनुर्दर्शय रामाय इति होवाच पार्थिवम् || १-६७-१
ततः स राजा जनकः सचिवान् व्यादिदेश ह |
धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम् || १-६७-२
जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् |
तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः || १-६७-३
नृणां शतानि पंचाशद्व्यायतानां महात्मनाम् |
मंजूषामष्टचक्रां तां समूहुस्ते कथंचन || १-६७-४
तामादाय तु मंजूषामायसीं यत्र तद्धनुः |
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः || १-६७-५
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः |
मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि || १-६७-६
तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत |
विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ || १-६७-७
इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् |
राजभिश्च महावीर्यैरशक्तैः पूरितं तदा || १-६७-८
नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः |
गंधर्वयक्षप्रवराः सकिन्नरमहोरगाः || १-६७-९
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे |
आरोपणे समायोगे वेपने तोलनेऽपि वा || १-६७-१०
तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुंगव |
दर्शयैतन्महाभाग अनयो राजपुत्रयोः || १-६७-११
विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम् |
वत्स राम धनुः पश्य इति राघवमब्रवीत् || १-६७-१२
महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः |
मंजूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् || १-६७-१३
इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना |
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा || १-६७-१४
बाढमित्येव तं राजा मुनिश्च समभाषत |
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः || १-६७-१५
पश्यतां नृसहस्राणां बहूनां रघुनंदनः |
आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः || १-६७-१६
आरोपयित्वा मौर्वीं च पूरयामास वीर्यवान् |
तद्बभंज धनुर्मध्ये नरश्रेष्ठो महायशाः || १-६७-१७
तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः |
भूमिकंपश्च सुमहान् पर्वतस्येव दीर्यतः || १-६७-१८
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः |
व्रजयित्वा मुनिवरं राजानं तौ च राघवौ || १-६७-१९
प्रत्याश्वस्तो जने तस्मिन् राजा विगतसाध्वसः |
उवाच प्रांजलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् || १-६७-२०
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः |
अत्यद्भुतमचिन्त्यं चातर्कितमिदं मया || १-६७-२१
जनकानां कुले कीर्तिमाहरिष्यति मे सुता |
सीता भर्तारमासाद्य रामं दशरथात्मजम् || १-६७-२२
मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक |
सीता प्राणैर्बहुमता देया रामाय मे सुता || १-६७-२३
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छंतु मंत्रिणः |
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः || १-६७-२४
राजानं प्रश्रितैर्वाक्यैरानयंतु पुरं मम |
प्रदानं वीर्यशुक्लायाः कथयंतु च सर्वशः || १-६७-२५
मुनिगुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै |
प्रीतियुक्तं तु राजानमानयंतु सुशीघ्रगाः || १-६७-२६
कौशिकश्च तथेत्याह राजा चाभाष्य मंत्रिणः |
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् |
यथावृत्तं समाख्यातुमानेतुं च नृपं तथा || १-६७-२७
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः
3 thoughts on “Bala Kanda – Sarga 67 (Valmiki Ramayana)”
Yo, downloading the king88app was a breeze. The app’s smooth, and gets you into the action quick. Plus, bonuses are pretty decent. Give it a download and see what you think king88app.
VG99? Heard some good things about this one. Might need to give it a shot and see what all the hype is about. vg99
KO66Game? Never heard of it before, but I’m always up for trying something new! What kind of games do they have? ko66game