Trishanku undertakes Vedic ritual
Valmiki Ramayana – Kanda 1 – Sarga 59
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः |
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम् || १-५९-१
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् |
शरणं ते भविष्यामि मा भैषीर्नृपपुंगव || १-५९-२
अहमामंत्रये सर्वान् महर्षीन् पुण्यकर्मणः |
यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः || १-५९-३
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते |
अनेन सह रूपेण सशरीरो गमिष्यसि || १-५९-४
हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर |
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः || १-५९-५
एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् |
व्यादिदेश महाप्राज्ञान्यज्ञसंभारकारणात् || १-५९-६
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह |
सर्वानृषिवरान् वत्सा आनयध्वं ममाज्ञया || १-५९-७
सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान् |
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः || १-५९-८
तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् |
तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया || १-५९-९
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः |
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् || १-५९-१०
ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् |
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः || १-५९-११
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् |
वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् || १-५९-१२
यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव |
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः || १-५९-१३
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः |
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् || १-५९-१४
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः |
एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाः || १-५९-१५
वासिष्ठा मुनिशार्दूल सर्वे सह महोदयाः |
तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः || १-५९-१६
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् |
ये दूषयन्त्यदुष्टं मां तपोग्रं समास्थितम् || १-५९-१७
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः |
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् || १-५९-१८
सप्त जातिशतान्येव मृतपाः सन्तु सर्वशः |
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः || १-५९-१९
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् |
महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् || १-५९-२०
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति |
प्राणातिपातनिरतो निरनुक्रोशतां गतः || १-५९-२१
दीर्घकालं मम क्रोधात् दुर्गतिं वर्तयिष्यति |
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः |
विरराम महातेजा ऋषिमध्ये महामुनिः || १-५९-२२
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनषष्टितमः सर्गः